editor.mrrjournal@gmail.com +91-9650568176 E-ISSN: 2584-184X

MRR Journal

Abstract

Indian Journal of Modern Research and Reviews, 2026; 4(5): 298-302

अर्वाचीन-स्त्रीप्रधानमहाकाव्येषु ‘विन्ध्यवासिनीविजयस्य’ वैशिष्ट्यम्

Author Name: गरिमा मिश्रा

1. शोध छात्रा, साहित्य विभाग, जगद्गुरु रामानन्दाचार्य राजस्थान, संस्कृत विश्वविद्यालय, जयपुर, राजस्थान, भारत

Abstract

<p>संस्कृतसाहित्यस्य सुदीर्घायां परम्परायां महाकाव्यं प्रधानविधा वर्तते। प्राचीनकाले नायकप्रधानकाव्यानां बाहुल्यम् आसीत्, किन्तु आधुनिकयुगे संस्कृतलेखने विस्मयकरं परिवर्तनं दृश्यते। साम्प्रतिककाले पौराणिक-ऐतिहासिक-सामाजिकविषयान् आधृत्य नारीपात्राणि नायकपदे (प्रधानभूमिकायां) प्रतिष्ठितवन्तः कवयः।</p>

<p>अस्मिन् शोधपत्रे आधुनिकसंस्कृतसाहित्यस्य प्रमुख-स्त्रीप्रधानमहाकाव्यानां&mdash; यथा &lsquo;उत्तरसीताचरितम्&rsquo;, &lsquo;जानकीजीवनम्&rsquo;, &lsquo;यशोधरा&rsquo;, &lsquo;झाँसीश्वरीचरितम्&rsquo; इत्यादीनां संक्षिप्तं विवेचनं कुर्वन् महाकवि-वसन्ता-त्र्यम्बक-शेवडे महोदयस्य &lsquo;विन्ध्यवासिनीविजयम्&rsquo; इति महाकाव्यस्य वैशिष्ट्यं प्रतिपादितम्।</p>

<p>यत्र सीता-यशोधरा-उर्मिलादयः नायिकाः स्वाभिमान-धैर्य-सङ्घर्षाणां मानवीरूपं प्रतिबिम्बयन्ति, तत्र &lsquo;विन्ध्यवासिनीविजयम्&rsquo; महाकाव्यस्य नायिका साक्षात् आदिशक्तिः अस्ति। अत्र देवी विन्ध्यवासिनी त्रिगुणात्मिका, ब्रह्मा-विष्णु-महेशानां प्रेरिका, त्रैलोक्यस्य कष्टनिवारिणी च चित्रिता। सा केवलं संहारिणी न, अपितु &lsquo;तनुमती करुणा&rsquo; अस्ति। महाकविना प्राचीनतन्त्रशास्त्राणां पौराणिकदृष्ट्या च आधुनिकनारीशक्तेः दिव्यस्वरूपस्य सुन्दरः समन्वयः विहितः।</p>

<p>अस्य अध्ययनस्य निष्कर्षोऽस्ति यत् &lsquo;विन्ध्यवासिनीविजयम्&rsquo; स्वस्य आध्यात्मिक-गहनतायाः लोककल्याणकारि-दृष्टिकोणस्य च कारणात् अद्वितीयं वर्तते। यत्र अन्याः नायिकाः मर्यादारक्षणे व्यापृताः, तत्र विन्ध्यवासिनी जगन्मातृत्वेन समग्रसृष्टेः सञ्चालनम् उद्बोधनञ्च करोति। अतः आधुनिक-संस्कृत-साहित्ये एतत् महाकाव्यं नारीशक्तेः सर्वोच्चं सोपानम् इति सिद्धम्।</p>

Keywords

आधुनिक-संस्कृत-महाकाव्यम्, स्त्रीप्रधानकाव्यम्, विन्ध्यवासिनीविजयम्, नारीचेतना, वसन्त-त्र्यम्बक-शेवडे, आदिशक्तिः।