editor.mrrjournal@gmail.com +91-9650568176 E-ISSN: 2584-184X
Submit Paper

MRR

  • Home
  • About Us
    • INDEXING
    • JOURNAL POLIICY
    • PLAGIARISM POLICY
    • PEER REVIEW POLICY
    • OPEN ACCESS POLICY
    • PUBLICATION ETHICS
    • PRIVACY STATEMENT
  • Editorial Board
  • Publication Info
    • Article Submission
    • Submission Guidelines
    • Publication Ethics
    • Journal Policies
    • Aim and Scope
  • Articles & Issues
    • Current Issue
    • Archives
  • Authors Instruction
  • Contact

MRR Journal

Indian Journal of Modern Research and Reviews, 2026; 4(5):298-302

अर्वाचीन-स्त्रीप्रधानमहाकाव्येषु ‘विन्ध्यवासिनीविजयस्य’ वैशिष्ट्यम्

Authors: गरिमा मिश्रा;

1. शोध छात्रा, साहित्य विभाग, जगद्गुरु रामानन्दाचार्य राजस्थान, संस्कृत विश्वविद्यालय, जयपुर, राजस्थान, भारत

Paper Type: Research Paper
Article Information
Received: 2026-04-04   |   Accepted: 2026-05-24   |   Published: 2026-05-27
Abstract

संस्कृतसाहित्यस्य सुदीर्घायां परम्परायां महाकाव्यं प्रधानविधा वर्तते। प्राचीनकाले नायकप्रधानकाव्यानां बाहुल्यम् आसीत्, किन्तु आधुनिकयुगे संस्कृतलेखने विस्मयकरं परिवर्तनं दृश्यते। साम्प्रतिककाले पौराणिक-ऐतिहासिक-सामाजिकविषयान् आधृत्य नारीपात्राणि नायकपदे (प्रधानभूमिकायां) प्रतिष्ठितवन्तः कवयः।

अस्मिन् शोधपत्रे आधुनिकसंस्कृतसाहित्यस्य प्रमुख-स्त्रीप्रधानमहाकाव्यानां— यथा ‘उत्तरसीताचरितम्’, ‘जानकीजीवनम्’, ‘यशोधरा’, ‘झाँसीश्वरीचरितम्’ इत्यादीनां संक्षिप्तं विवेचनं कुर्वन् महाकवि-वसन्ता-त्र्यम्बक-शेवडे महोदयस्य ‘विन्ध्यवासिनीविजयम्’ इति महाकाव्यस्य वैशिष्ट्यं प्रतिपादितम्।

यत्र सीता-यशोधरा-उर्मिलादयः नायिकाः स्वाभिमान-धैर्य-सङ्घर्षाणां मानवीरूपं प्रतिबिम्बयन्ति, तत्र ‘विन्ध्यवासिनीविजयम्’ महाकाव्यस्य नायिका साक्षात् आदिशक्तिः अस्ति। अत्र देवी विन्ध्यवासिनी त्रिगुणात्मिका, ब्रह्मा-विष्णु-महेशानां प्रेरिका, त्रैलोक्यस्य कष्टनिवारिणी च चित्रिता। सा केवलं संहारिणी न, अपितु ‘तनुमती करुणा’ अस्ति। महाकविना प्राचीनतन्त्रशास्त्राणां पौराणिकदृष्ट्या च आधुनिकनारीशक्तेः दिव्यस्वरूपस्य सुन्दरः समन्वयः विहितः।

अस्य अध्ययनस्य निष्कर्षोऽस्ति यत् ‘विन्ध्यवासिनीविजयम्’ स्वस्य आध्यात्मिक-गहनतायाः लोककल्याणकारि-दृष्टिकोणस्य च कारणात् अद्वितीयं वर्तते। यत्र अन्याः नायिकाः मर्यादारक्षणे व्यापृताः, तत्र विन्ध्यवासिनी जगन्मातृत्वेन समग्रसृष्टेः सञ्चालनम् उद्बोधनञ्च करोति। अतः आधुनिक-संस्कृत-साहित्ये एतत् महाकाव्यं नारीशक्तेः सर्वोच्चं सोपानम् इति सिद्धम्।

Keywords

आधुनिक-संस्कृत-महाकाव्यम्, स्त्रीप्रधानकाव्यम्, विन्ध्यवासिनीविजयम्, नारीचेतना, वसन्त-त्र्यम्बक-शेवडे, आदिशक्तिः।

How to Cite

गरिमा मिश्रा. अर्वाचीन-स्त्रीप्रधानमहाकाव्येषु ‘विन्ध्यवासिनीविजयस्य’ वैशिष्ट्यम्. Indian Journal of Modern Research and Reviews. 2026; 4(5):298-302

Download PDF

Useful Links

  • Home
  • About us
  • Editorial Board
  • Current Issue
  • All Issues
  • Submit Paper

Indexing

MRR

Contact Us

Phone: +91-9650568176
Email: editor.mrrjournal@gmail.com | editor.mrrjournal@gmail.com

© Copyright MRR 2023. All Rights Reserved